(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.142. अध्यायः 142
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति राज्ञा ब्राह्मणवर्जं दण्डेन प्रजापालनकरणे शुक्रमतानुवादः॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-142-0x(5773)(70736)
यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम्।
अस्तिस्विद्दस्युमर्यादा यामयं परिवर्जयेत्॥ 12-142-1(70737)
संमुह्यामि विपीदामि धर्मो मे शिथिलीकृतः।
उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन्॥ 12-142-2(70738)
भीष्म उवाच। 12-142-2x(5774)
नैतच्छ्रुत्वागमादेव तव धर्मानुशासनम्।
प्रज्ञासमभिहारोऽयं कविभिः संभृतं मधु॥ 12-142-3(70739)
बाह्याः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः।
बहुशाखेन धर्मेण यत्रैषा संप्रसिध्यते॥ 12-142-4(70740)
बुद्धिं संजनयेद्राज्ञां धर्ममाचरतां सदा।
जयो भवति कौरव्य सदा तद्वृद्धिरेव च॥ 12-142-5(70741)
बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः।
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः॥ 12-142-6(70742)
नैकशाखेन धर्मेण राज्ञो धर्मो विधीयते।
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता॥ 12-142-7(70743)
अद्वैधज्ञः प्रतिद्वैधे संशयं प्राप्नुमर्हति।
बुद्धिद्वैधं विधातव्यं पुरस्तादेव भारत॥ 12-142-8(70744)
पार्श्वतः कारणं राज्ञो विषूच्यस्त्वापगा इव।
जनास्तूच्चरितं धर्मं विजान्त्यन्यथाऽन्यथा॥ 12-142-9(70745)
सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनः परे।
तद्वै यथायथं बुद्ध्वा ज्ञानमाददते सताम्॥ 12-142-10(70746)
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः।
वैषम्यमर्थविद्यानां निरर्थाः ख्यापयन्ति ते॥ 12-142-11(70747)
आजिजीविषवो विद्यां यशः कामौ समन्तनः।
ते सर्वे नृप पापिष्ठा धर्मस्य परिपन्थिनः॥ 12-142-12(70748)
अपक्वमतयो मन्दा न जानन्ति यथातथम्।
तथा ह्यशास्त्रकुशलाः सर्वत्रायुक्तिनिष्ठिताः॥ 12-142-13(70749)
परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः।
विज्ञानमथ विद्यानां न सम्यगिति मे मतिः॥ 12-142-14(70750)
निन्दया परविद्यानां स्वविद्यां ख्यापयन्ति च।
वागास्तिक्यानुनीताश्च दुग्धविद्याफला इव॥ 12-142-15(70751)
तान्विद्यावणिजो विद्धि राक्षसानिव भारत।
व्याजेन कृत्स्नो विहितो धर्मस्ते परिहास्यते॥ 12-142-16(70752)
न धर्मवचनं वाचा नैव बुद्ध्येति नः श्रुतम्।
इति बार्हस्पत्यविज्ञानं प्रोवाच मघवा स्वयम्॥ 12-142-17(70753)
न त्यव वचनं किंचिदनिमित्तादिहोच्यते।
स्वविनीतेन शास्त्रेण ह्यविद्यः स्यादथापरः॥ 12-142-18(70754)
लोकयात्रामिहैके तु धर्मं प्राहुर्मनीषिणः।
समुद्दिष्टं सतां धर्मं स्वयमूहेत् पण्डितः॥ 12-142-19(70755)
अमर्षाच्छास्त्रसंमोहादनिमित्तादिहोच्यते।
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम्॥ 12-142-20(70756)
आगमागतया बुद्ध्या वचनेन प्रशस्यते।
अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते॥ 12-142-21(70757)
अनुपागतमेवेदं शास्त्रमेवमपार्थकम्।
दैतेयानुशना प्राह संशयच्छेदनं पुरा॥ 12-142-22(70758)
ज्ञानमप्यपदिश्यं हि यथा नास्ति तथैव तत्।
तेन संच्छिन्नमूलेन कस्तोषयितुमिच्छति॥ 12-142-23(70759)
पुनर्व्यवसितं यो वा नेदं वाक्यमुपाश्नुते।
उग्रायैव हि सृष्टोऽसि कर्मणे तत्त्वमीक्षसे॥ 12-142-24(70760)
अग्रे मामन्ववेक्षस्व राजन्योऽयं बुभूषते।
यथा प्रमुच्यते त्वन्यो यदर्थं न प्रमोदते॥ 12-142-25(70761)
अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम्।
तस्मान्नतैक्ष्ण्याद्भूतानां यात्रा काचित्प्रसिद्ध्यति॥ 12-142-26(70762)
यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः।
एषा ह्येव तु मर्यादा यामयं परिवर्जयेत्॥ 12-142-27(70763)
तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयत्युत।
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव॥ 12-142-28(70764)
यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव।
विहरन्ति परस्वानि स वै क्षत्रियपांसनः॥ 12-142-29(70765)
कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान्।
प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन्॥ 12-142-30(70766)
विहीनजन्मकर्माणि यः प्रगृह्णाति भूमिपः।
उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम्॥ 12-142-31(70767)
नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते।
उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव॥ 12-142-32(70768)
कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि मे स्थितम्।
उग्रकर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै॥ 12-142-33(70769)
`अरुष्टः कस्यचिद्राजन्नेवमेव समाचर।'
अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम्।
एवं शुक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ॥ 12-142-34(70770)
युधिष्ठिर उवाच। 12-142-35x(5775)
अस्ति चेदिह मर्यादा यामन्यो नातिलङ्घयेत्।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह॥ 12-142-35(70771)
भीष्म उवाच। 12-142-36x(5776)
ब्राह्मणानेव सेवेत विद्याबृद्धांस्तपस्विनः।
श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम्॥ 12-142-36(70772)
शुश्रूषा तु महाराज सान्त्वं विप्रेषु नित्यदा।
क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप॥ 12-142-37(70773)
तेषां प्रीत्या यशो मुख्यमप्रीत्या परमं भयम्।
प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथोरगाः॥ ॥ 12-142-38(70774)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः॥ 142॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-142-1 अस्तिस्विदस्य मर्यादा इति ध. पाठः॥ 12-142-3 एतदागमादेव श्रुत्वा तव धर्मानुशासनं मया कृतमिति नास्ति किंतु प्रज्ञायाः समभिहारो निष्ठा कल्पितेयमित्यर्थः। एतदग्रिहोत्रादिवद्विधेयं न अपितु कविभिरकरणे महान्तं दोषं पश्यद्भिः कल्पितमिति भावः। नैतद्वुध्वाऽऽगमादेवेति ध. पाठः॥ 12-142-4 ततस्ततः कोकिलवराहवूकसिंहादिभ्यः शिक्षित्वा प्रज्ञाः प्रतिविधातव्याः॥ 12-142-6 प्रतिविधातव्यश्चिकित्सनीयः॥ 12-142-7 द्वैधमेकस्यैव कर्मणः क्वचित्काले धर्मत्वं क्वचिदधर्मत्वमिति द्विप्रकारत्वम्। तस्मिन्प्राप्ते तदनभिज्ञः संशयं संकटं प्राप्नोति। अहिंसाया धर्मत्वेऽपि चोररक्षया पापं भवति तद्वदिहं ज्ञेयम्॥ 12-142-8 सतां मतमिति शेषः॥ 12-142-11 मुष्णन्ति धर्मशास्त्रविरुद्धमर्थशास्त्रां नादर्तव्यमिति वदन्ति। वैषम्यमप्रामाण्यमधर्मत्वं वा॥ 12-142-12 शास्त्रचोरनिन्दाप्रसङ्गात्तदुपजीविनोऽपि निन्दति। आजिजीविषव इति सार्धैस्चतुर्भिः॥ 12-142-14 न सम्यगिति वर्तत इति ट. ड.द. पाठः॥ 12-142-15 निवर्तनैरविद्यानामिति थ. पाठः। वागस्त्रा वाक्छरीभूता इति झ. ट. पाठः॥ 12-142-17 वाचा केवलया बुद्ध्या वा केवलेन धर्मवचनं धर्मिश्चयो नास्त्यपितु समुच्चिताभ्यामुभाभ्यां धर्मनिर्णय इत्यर्थः॥ 12-142-18 अध्यवस्यन्ति चापर इति ट. ड. द. पाठः॥ 12-142-19 इहलोके तु एके आचार्याः लोकयात्रां तन्निर्वाहमेव धर्मं प्राहुः। साच चोरादीनां वधमन्तरेण न संभवतीत्यवश्यं हिंसापि कर्तव्येति तेषामाशयः। एवंसत्यपि मतभेदे युक्त्यैव धर्मं ऊहेतेत्याह समिति॥ 12-142-20 तस्मादमर्षादींस्त्यक्त्वा समूहे सभायां शास्त्रं वदेदित्याशयेनाह अमर्षादिति। समूहे यत्प्रदर्शनमिति ध. पाठः॥ 12-142-21 आगमागतया बुद्ध्या श्रुत्युपगृहीतेन तर्केण सहितं यद्वचनं तेन प्रशस्यते शास्त्रं नान्यतरेण। अन्यस्तु ज्ञानहेतुत्वात् अज्ञातज्ञापकतया वचनं तर्केण हीनं शब्दमेव साधु मन्यते। कुतः अज्ञानात्॥ 12-142-22 अन्यः पुनः युक्त्या इदं शास्त्रं दूषितं इति हेतोरपार्थकं व्यर्थमिति मन्यते तदप्यज्ञानादेव। तस्मात्तर्केण शास्त्रस्य शास्त्रेण तर्कस्य वा बाधमकृत्वा यदुभयसंमतं तदेवानुष्ठेयमित्युशनसो मतं पूर्वोक्तेन बार्हस्पत्येन ज्ञानेनैक्यं गतमिति दर्शितम्॥ 12-142-23 अपदिश्यं दिशोर्मध्ये स्थितं कोटिद्वयस्पर्शि ज्ञानं संशयरूपं तद्यथा नास्ति तथैव व्यर्थमित्यर्थः॥ 12-142-26 अज इति। यथाऽजो यज्ञार्थं नीयते तद्धिताय एवं अश्वक्षत्रियावपि संग्रामार्थं नीयेते तद्धितायैव॥ 12-142-35 वृत्तिश्चैषा महाबाहो इति ट. ड. थ. पाठः॥ 12-142-36 ब्राह्मणादर्वागेव दण्डस्य मर्यादा ब्राह्मणस्तु नैव दण्ड्योऽपि तु पूज्य एवेत्याह ब्राह्मणानेवेति॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.